७.४४.१४

तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे ।
न हि पश्याम्यहं भूयः किंचिद्दुःखमतोऽधिकम् ॥

M N Dutt

Do you therefore perceive into what great abyss of sorrow and ill-fame I have fallen. Up to this time I have never experienced such a mighty grief.

पदच्छेदः

तस्माद्तस्मात् (अव्ययः)
भवन्तःभवत् (१.३)
पश्यन्तुपश्यन्तु (√पश् लोट् प्र.पु. बहु.)
पतितंपतित (√पत् + क्त, २.१)
शोकसागरेशोक–सागर (७.१)
(अव्ययः)
हिहि (अव्ययः)
पश्याम्यहंपश्यामि (√दृश् लट् उ.पु. )–मद् (१.१)
भूयःभूयस् (अव्ययः)
किंचिद्कश्चित् (२.१)
दुःखम्दुःख (२.१)
अतोअतस् (अव्ययः)
ऽधिकम्अधिक (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्माद्भ न्तः श्यन्तु
ति तं शो सा रे
हि श्याम्य हं भू यः
किं चि द्दुः तोऽधि कम्