७.४४.१९

शापिताश्च मया यूयं भुजाभ्यां जीवितेन च ।
ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथंचन ॥

पदच्छेदः

शापिताश्चशापित (√शापय् + क्त, १.३)–च (अव्ययः)
मयामद् (३.१)
यूयंत्वद् (१.३)
भुजाभ्यांभुज (३.२)
जीवितेनजीवित (३.१)
(अव्ययः)
येयद् (१.३)
मांमद् (२.१)
वाक्यान्तरेवाक्य–अन्तर (७.१)
ब्रूयुर्ब्रूयुः (√ब्रू विधिलिङ् प्र.पु. बहु.)
अनुनेतुंअनुनेतुम् (√अनु-नी + तुमुन्)
कथंचनकथंचन (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शापि ताश्च या यू यं
भु जा भ्यां जीवि ते
ये मां वा क्यान्त रे ब्रूयु
नु ने तुं थं