७.४४.२०

मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः ।
इतोऽद्य नीयतां सीता कुरुष्व वचनं मम ॥

पदच्छेदः

मानयन्तुमानयन्तु (√मानय् लोट् प्र.पु. बहु.)
भवन्तोभवत् (१.३)
मांमद् (२.१)
यदियदि (अव्ययः)
मच्छासनेमद्–शासन (७.१)
स्थिताःस्थित (√स्था + क्त, १.३)
इतोइतस् (अव्ययः)
ऽद्यअद्य (अव्ययः)
नीयतांनीयताम् (√नी प्र.पु. एक.)
सीतासीता (१.१)
कुरुष्वकुरुष्व (√कृ लोट् म.पु. )
वचनंवचन (२.१)
मममद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मान्तु न्तो मां
दि च्छा नेस्थि ताः
तोऽद्य नी तां सी ता
कु रुष्व नं