७.४४.२१

पूर्वमुक्तोऽहमनया गङ्गातीरे महाश्रमान् ।
पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ॥

M N Dutt

Ere this Sītā had communicated her intention of beholding the hermitages of ascetics on the banks of the Gangā. Let that desire of hers be now satisfied.

पदच्छेदः

पूर्वम्पूर्वम् (अव्ययः)
उक्तोउक्त (√वच् + क्त, १.१)
ऽहम्मद् (१.१)
अनयाइदम् (३.१)
गङ्गातीरेगङ्गा–तीर (७.१)
महाश्रमान्महत्–आश्रम (२.३)
पश्येयम्पश्येयम् (√पश् विधिलिङ् उ.पु. )
इतिइति (अव्ययः)
तस्याश्चतद् (६.१)–च (अव्ययः)
कामःकाम (१.१)
संवर्त्यताम्संवर्त्यताम् (√सम्-वर्तय् प्र.पु. एक.)
अयम्इदम् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पूर्व मु क्तोऽह या
ङ्गा ती रे हाश्र मान्
श्येमिति स्याश्च
का मः संर्त्य ता यम्