७.४६.१०

वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः ।
अवाङ्मुखो बाष्पगलो वाक्यमेतदुवाच ह ॥

M N Dutt

Sītā having addressed him thus, Lakşmaņa with a poorly heart and suppressed tone, said thus.

पदच्छेदः

वैदेह्यावैदेही (३.१)
चोद्यमानस्तुचोद्यमान (√चोदय् + शानच्, १.१)–तु (अव्ययः)
लक्ष्मणोलक्ष्मण (१.१)
दीनचेतनःदीन–चेतना (१.१)
अवाङ्मुखोअवाङ्मुख (१.१)
बाष्पगलोबाष्प–गल (१.१)
वाक्यम्वाक्य (२.१)
एतद्एतद् (२.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वै दे ह्या चोद्य मास्तु
क्ष्म णो दी चे नः
वाङ्मु खो बाष्प लो
वाक्य मेदु वा