७.४६.९

शापितोऽसि नरेन्द्रेण यत्त्वं संतापमात्मनः ।
तद्ब्रूयाः संनिधौ मह्यमहमाज्ञापयामि ते ॥

पदच्छेदः

शापितोशापित (√शापय् + क्त, १.१)
ऽसिअसि (√अस् लट् म.पु. )
नरेन्द्रेणनरेन्द्र (३.१)
यत्यत् (अव्ययः)
त्वंत्वद् (१.१)
संतापम्संताप (२.१)
आत्मनःआत्मन् (६.१)
तद्तद् (२.१)
ब्रूयाःब्रूयाः (√ब्रू विधिलिङ् म.पु. )
संनिधौसंनिधि (७.१)
मह्यम्मद् (४.१)
अहम्मद् (१.१)
आज्ञापयामिआज्ञापयामि (√आ-ज्ञापय् लट् उ.पु. )
तेत्वद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शापि तोऽसि रे न्द्रे
त्त्वं सं ता मात्म नः
द्ब्रू याः संनि धौह्य
मा ज्ञा यामि ते