७.४६.५

श्रेयो हि मरणं मेऽद्य मृत्योर्वा यत्परं भवेत् ।
न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ॥

M N Dutt

The death and the pain consequent upon it are better than the action I am engaged in.

पदच्छेदः

श्रेयोश्रेयस् (१.१)
हिहि (अव्ययः)
मरणंमरण (१.१)
मेमद् (६.१)
ऽद्यअद्य (अव्ययः)
मृत्योर्मृत्यु (५.१)
वावा (अव्ययः)
यत्यद् (१.१)
परंपर (१.१)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
(अव्ययः)
चास्मिन्न् (अव्ययः)–इदम् (७.१)
ईदृशेईदृश (७.१)
कार्येकार्य (७.१)
नियोज्योनियोज्य (√नि-योजय् + कृत्, १.१)
लोकनिन्दितेलोक–निन्दित (√निन्द् + क्त, ७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्रे योहि णं मेऽद्य
मृ त्यो र्वात्प रं वेत्
चा स्मि न्नीदृ शे का र्ये
नि यो ज्यो लो निन्दि ते