७.४६.६

प्रसीद न च मे रोषं कर्तुमर्हसि सुव्रते ।
इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ॥

पदच्छेदः

प्रसीदप्रसीद (√प्र-सद् लोट् म.पु. )
(अव्ययः)
(अव्ययः)
मेमद् (६.१)
रोषंरोष (२.१)
कर्तुम्कर्तुम् (√कृ + तुमुन्)
अर्हसिअर्हसि (√अर्ह् लट् म.पु. )
सुव्रतेसुव्रत (८.१)
इत्यञ्जलिकृतोइति (अव्ययः)–अञ्जलि–कृत (√कृ + क्त, १.१)
भूमौभूमि (७.१)
निपपातनिपपात (√नि-पत् लिट् प्र.पु. एक.)
तद् (१.१)
लक्ष्मणःलक्ष्मण (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र सी मे रो षं
र्तुर्हसि सुव्र ते
त्यञ्जलिकृ तो भू मौ
नि पाक्ष्म णः