७.४६.७

रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः ।
मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत् ॥

पदच्छेदः

रुदन्तंरुदत् (√रुद् + शतृ, २.१)
प्राञ्जलिंप्राञ्जलि (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
काङ्क्षन्तंकाङ्क्षत् (√काङ्क्ष् + शतृ, २.१)
मृत्युम्मृत्यु (२.१)
आत्मनःआत्मन् (६.१)
मैथिलीमैथिली (१.१)
भृशसंविग्नाभृश–संविग्न (√सम्-विज् + क्त, १.१)
लक्ष्मणंलक्ष्मण (२.१)
वाक्यम्वाक्य (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रु न्तं प्राञ्ज लिं दृ ष्ट्वा
का ङ्क्ष न्तं मृत्यु मात्म नः
मैथि लीभृ सं वि ग्ना
क्ष्म णं वाक्यब्र वीत्