७.४६.८

किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण ।
पश्यामि त्वां च न स्वस्थमपि क्षेमं महीपतेः ॥

पदच्छेदः

किम् (१.१)
इदंइदम् (१.१)
नावगच्छामि (अव्ययः)–अवगच्छामि (√अव-गम् लट् उ.पु. )
ब्रूहिब्रूहि (√ब्रू लोट् म.पु. )
तत्त्वेनतत्त्व (३.१)
लक्ष्मणलक्ष्मण (८.१)
पश्यामिपश्यामि (√दृश् लट् उ.पु. )
त्वांत्वद् (२.१)
(अव्ययः)
(अव्ययः)
स्वस्थम्स्वस्थ (२.१)
अपिअपि (अव्ययः)
क्षेमंक्षेम (२.१)
महीपतेःमहीपति (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

किमि दं ना च्छामि
ब्रूहि त्त्वेक्ष्म
श्या मि त्वां स्वस्थ
पि क्षे मं ही तेः