७.४७.६

सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता ।
आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा ॥

M N Dutt

But how shall I, O gentle one, live in the hermitage being divorced from all my kith and kin? and being afflicted to whom shall I express my sorrow?

पदच्छेदः

सातद् (१.१)
कथंकथम् (अव्ययः)
ह्याश्रमेहि (अव्ययः)–आश्रम (७.१)
सौम्यसौम्य (८.१)
वत्स्यामिवत्स्यामि (√वस् लृट् उ.पु. )
विजनीकृताविजनीकृत (√विजनी-कृ + क्त, १.१)
आख्यास्यामिआख्यास्यामि (√आ-ख्या लृट् उ.पु. )
(अव्ययः)
कस्याहं (६.१)–मद् (१.१)
दुःखंदुःख (२.१)
दुःखपरायणादुःख–परायण (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सा थं ह्याश्र मे सौम्य
त्स्यामिवि नीकृ ता
ख्या स्यामि स्या हं
दुः खं दुः रा णा