७.४७.९

यथाज्ञां कुरु सौमित्रे त्यज मां दुःखभागिनीम् ।
निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम ॥

M N Dutt

O Saumitri, do you carry out the orders you have received. By renouncing this wretched wight do you satisfy the King's orders. But hear, what I say.

पदच्छेदः

यथाज्ञांयथा (अव्ययः)–आज्ञा (२.१)
कुरुकुरु (√कृ लोट् म.पु. )
सौमित्रेसौमित्रि (८.१)
त्यजत्यज (√त्यज् लोट् म.पु. )
मांमद् (२.१)
दुःखभागिनीम्दुःख–भागिन् (२.१)
निदेशेनिदेश (७.१)
स्थीयतांस्थीयताम् (√स्था प्र.पु. एक.)
राज्ञःराजन् (५.१)
शृणुशृणु (√श्रु लोट् म.पु. )
चेदं (अव्ययः)–इदम् (२.१)
वचोवचस् (२.१)
मममद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

था ज्ञांकुरु सौ मि त्रे
त्य मां दुः भागि नीम्
नि दे शे स्थी तां रा ज्ञः
शृणु चे दं चो