७.४८.१४

तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतोऽन्वगात् ।
अन्वयाद्यत्र तापस्यो धर्मनित्याः समाहिताः ॥

पदच्छेदः

तंतद् (२.१)
प्रयान्तंप्रयान्त् (√प्र-या + शतृ, २.१)
मुनिंमुनि (२.१)
सीतासीता (१.१)
प्राञ्जलिःप्राञ्जलि (१.१)
पृष्ठतोपृष्ठतस् (अव्ययः)
ऽन्वगात्अन्वगात् (√अनु-गा प्र.पु. एक.)
अन्वयाद्अन्वयात् (√अनु-या प्र.पु. एक.)
यत्रयत्र (अव्ययः)
तापस्योतापसी (१.३)
धर्मनित्याःधर्म–नित्य (१.३)
समाहिताःसमाहित (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तंप्र या न्तंमु निं सी ता
प्राञ्ज लिः पृष्ठ तोऽन्व गात्
न्व या द्यत्र ता स्यो
र्म नि त्याः माहि ताः