७.४८.१५

तं दृष्ट्वा मुनिमायान्तं वैदेह्यानुगतं तदा ।
उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् ॥

पदच्छेदः

तंतद् (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
मुनिम्मुनि (२.१)
आयान्तंआयान्त् (√आ-या + शतृ, २.१)
वैदेह्यानुगतंवैदेही (३.१)–अनुगत (√अनु-गम् + क्त, २.१)
तदातदा (अव्ययः)
उपाजग्मुर्उपाजग्मुः (√उपा-गम् लिट् प्र.पु. बहु.)
मुदामुद् (३.१)
युक्तायुक्त (√युज् + क्त, १.३)
वचनंवचन (२.१)
चेदम् (अव्ययः)–इदम् (२.१)
अब्रुवन्अब्रुवन् (√ब्रू लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तं दृ ष्ट्वामुनि मा या न्तं
वै दे ह्यानु तं दा
पा ग्मुर्मु दा यु क्ता
नं चेब्रु वन्