७.४८.१९

इमां भवत्यः पश्यन्तु स्नेहेन परमेण ह ।
गौरवान्मम वाक्यस्य पूज्या वोऽस्तु विशेषतः ॥

M N Dutt

She is worthy of your reverence specially while such is order of mine-your preceptor. So. do you all, take care of her with great affection.

पदच्छेदः

इमांइदम् (२.१)
भवत्यःभवत् (१.३)
पश्यन्तुपश्यन्तु (√पश् लोट् प्र.पु. बहु.)
स्नेहेनस्नेह (३.१)
परमेणपरम (३.१)
(अव्ययः)
गौरवान्ममगौरव (५.१)–मद् (६.१)
वाक्यस्यवाक्य (६.१)
पूज्यापूज्य (√पूजय् + कृत्, १.१)
वोत्वद् (६.३)
ऽस्तुअस्तु (√अस् लोट् प्र.पु. एक.)
विशेषतःविशेषतः (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मां त्यः श्यन्तु
स्ने हे मे
गौ वान्म वा क्यस्य
पू ज्या वोऽस्तुवि शे तः