७.५.१३

तपसाराधितो देव यदि नो दिशसे वरम् ।
अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः ।
प्रभविष्णवो भवामेति परस्परमनुव्रताः ॥

M N Dutt

O god! that have been adored through asceticism, if you do intend to confer on us a boon, let us be invincible, capable of slaying foes, immortal, lordly, and ever devoted to each other.'

पदच्छेदः

तपसाराधितोतपस् (३.१)–आराधित (√आ-राधय् + क्त, १.१)
देवदेव (८.१)
यदियदि (अव्ययः)
नोमद् (४.३)
दिशसेदिशसे (√दिश् लट् म.पु. )
वरम्वर (२.१)
अजेयाःअजेय (१.३)
शत्रुहन्तारस्तथैवशत्रु–हन्तृ (१.३)–तथा (अव्ययः)–एव (अव्ययः)
चिरजीविनःचिर–जीविन् (१.३)
प्रभविष्णवोप्रभविष्णु (१.३)
भवामेतिभवाम (√भू लोट् उ.पु. द्वि.)–इति (अव्ययः)
परस्परम्परस्पर (२.१)
अनुव्रताःअनुव्रत (१.३)