७.५.१४

एवं भविष्यतीत्युक्त्वा सुकेशतनयान्प्रभुः ।
प्रययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ॥

पदच्छेदः

एवंएवम् (अव्ययः)
भविष्यतीत्युक्त्वाभविष्यति (√भू लृट् प्र.पु. एक.)–इति (अव्ययः)–उक्त्वा (√वच् + क्त्वा)
सुकेशतनयान्सुकेश–तनय (२.३)
प्रभुःप्रभु (१.१)
प्रययौप्रययौ (√प्र-या लिट् प्र.पु. एक.)
ब्रह्मलोकायब्रह्मन्–लोक (४.१)
ब्रह्माब्रह्मन् (१.१)
ब्राह्मणवत्सलःब्राह्मण–वत्सल (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वं विष्य ती त्यु क्त्वा
सु के यान्प्र भुः
प्र यौ ब्रह्म लो का
ब्र ह्मा ब्राह्मत्स लः