७.५.१८

गृहकर्ता भवानेव देवानां हृदयेप्सितम् ।
अस्माकमपि तावत्त्वं गृहं कुरु महामते ॥

पदच्छेदः

गृहकर्तागृह–कर्तृ (१.१)
भवान्भवत् (१.१)
एवएव (अव्ययः)
देवानांदेव (६.३)
हृदयेप्सितम्हृदय–ईप्सित (२.१)
अस्माकम्मद् (६.३)
अपिअपि (अव्ययः)
तावत्तावत् (अव्ययः)
त्वंत्वद् (१.१)
गृहंगृह (२.१)
कुरुकुरु (√कृ लोट् म.पु. )
महामतेमहामति (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

गृ र्ता वा ने
दे वा नांहृ येप्सि तम्
स्मापि ता त्त्वं
गृ हंकुरु हा ते