७.५.२

तस्य देववती नाम द्वितीया श्रीरिवात्मजा ।
तां सुकेशाय धर्मेण ददौ दक्षः श्रियं यथा ॥

पदच्छेदः

तस्यतद् (६.१)
देववतीदेववती (१.१)
नामनाम (अव्ययः)
द्वितीयाद्वितीय (१.१)
श्रीर्श्री (१.१)
इवात्मजाइव (अव्ययः)–आत्मजा (१.१)
तांतद् (२.१)
सुकेशायसुकेश (४.१)
धर्मेणधर्म (३.१)
ददौददौ (√दा लिट् प्र.पु. एक.)
दक्षःदक्ष (१.१)
श्रियंश्री (२.१)
यथायथा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य दे ती ना
द्वि ती या श्रीरि वात्म जा
तांसु के शा र्मे
दौ क्षःश्रि यं था