७.५.२२

त्रिंशद्योजनविस्तीर्णा स्वर्णप्राकारतोरणा ।
मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता ॥

पदच्छेदः

त्रिंशद्योजनविस्तीर्णात्रिंशत्–योजन–विस्तीर्ण (√वि-स्तृ + क्त, १.१)
स्वर्णप्राकारतोरणास्वर्ण–प्राकार–तोरण (१.१)
मयामद् (३.१)
लङ्केतिलङ्का (१.१)–इति (अव्ययः)
नगरीनगरी (१.१)
शक्राज्ञप्तेनशक्र–आज्ञप्त (√आ-ज्ञपय् + क्त, ३.१)
निर्मितानिर्मित (√निः-मा + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्रिं द्यो वि स्ती र्णा
स्व र्ण प्रा का तो णा
या ङ्केति री
क्रा ज्ञ प्ते निर्मि ता