७.५.३०

कृतदारास्तु ते राम सुकेशतनयाः प्रभो ।
भार्याभिः सह चिक्रीडुरप्सरोभिरिवामराः ॥

M N Dutt

And having wedded, O Rama, Sukesa's sons began to sport with their wives, like celestials sporting with Apsarās.

पदच्छेदः

कृतदारास्तुकृतदार (१.३)–तु (अव्ययः)
तेतद् (१.३)
रामराम (८.१)
सुकेशतनयाःसुकेश–तनय (१.३)
प्रभोप्रभु (८.१)
भार्याभिःभार्या (३.३)
सहसह (अव्ययः)
चिक्रीडुर्चिक्रीडुः (√क्रीड् लिट् प्र.पु. बहु.)
अप्सरोभिर्अप्सरस् (३.३)
इवामराःइव (अव्ययः)–अमर (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कृ दा रास्तु ते रा
सु के याःप्र भो
भा र्या भिः चि क्रीडु
प्स रोभिरि वा राः