७.५.३३

सुमालिनोऽपि भार्यासीत्पूर्णचन्द्रनिभानना ।
नाम्ना केतुमती नाम प्राणेभ्योऽपि गरीयसी ॥

पदच्छेदः

सुमालिनोसुमालिन् (६.१)
ऽपिअपि (अव्ययः)
भार्यासीत्भार्या (१.१)–आसीत् (√अस् लङ् प्र.पु. एक.)
पूर्णचन्द्रनिभाननापूर्ण–चन्द्र–निभ–आनन (१.१)
नाम्नानामन् (३.१)
केतुमतीकेतुमती (१.१)
नामनाम (अव्ययः)
प्राणेभ्योप्राण (५.३)
ऽपिअपि (अव्ययः)
गरीयसीगरीयस् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सु मालि नोऽपि भा र्या सी
त्पूर्णन्द्रनि भा ना
ना म्ना केतु ती ना
प्रा णे भ्योऽपि री सी