७.५.३४

सुमाली जनयामास यदपत्यं निशाचरः ।
केतुमत्यां महाराज तन्निबोधानुपूर्वशः ॥

पदच्छेदः

सुमालीसुमालिन् (१.१)
जनयामासजनयामास (√जनय् प्र.पु. एक.)
यद्यद् (२.१)
अपत्यंअपत्य (२.१)
निशाचरःनिशाचर (१.१)
केतुमत्यांकेतुमती (७.१)
महाराजमहत्–राज (८.१)
तन्निबोधानुपूर्वशःतद् (२.१)–निबोध (√नि-बुध् लोट् म.पु. )–अनुपूर्वशस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सु मा ली या मा
त्यंनि शा रः
केतु त्यां हा रा
न्नि बो धानु पूर्व शः