७.५.३६

संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः ।
राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता ।
कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ॥

पदच्छेदः

संह्रादिःसंह्रादि (१.१)
प्रघसश्चैवप्रघस (१.१)–च (अव्ययः)–एव (अव्ययः)
भासकर्णश्चभासकर्ण (१.१)–च (अव्ययः)
राक्षसःराक्षस (१.१)
राकाराका (१.१)
पुष्पोत्कटापुष्पोत्कटा (१.१)
चैव (अव्ययः)–एव (अव्ययः)
कैकसीकैकसी (१.१)
(अव्ययः)
शुचिस्मिताशुचि–स्मित (१.१)
कुम्भीनसीकुम्भीनसी (१.१)
(अव्ययः)
इत्येतेइति (अव्ययः)–एतद् (१.३)
सुमालेःसुमालि (६.१)
प्रसवाःप्रसव (१.३)
स्मृताःस्मृत (√स्मृ + क्त, १.३)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
सं ह्रा दिःप्र श्चै भार्ण
श्च राक्ष सः रा का पु ष्पोत्क टा चै
कै सीशु चिस्मि ता कु म्भी सी
त्ये तेसु मा लेःप्र वाःस्मृ ताः