७.५.४०

ततस्तु ते राक्षसपुंगवास्त्रयो; निशाचरैः पुत्रशतैश्च संवृताः ।
सुरान्सहेन्द्रानृषिनागदानवा;न्बबाधिरे ते बलवीर्यदर्पिताः ॥

M N Dutt

And those three foremost of Rākṣasa, accompanied by hundreds of sons night rangers all-elated on account of their measureless prowess, began to worry the sages and serpents and Yakşas, and celestials with Indra (at their head).

पदच्छेदः

ततस्तुततस् (अव्ययः)–तु (अव्ययः)
तेतद् (१.३)
राक्षसपुंगवास्त्रयोराक्षस–पुंगव (१.३)–त्रि (१.३)
निशाचरैःनिशाचर (३.३)
पुत्रशतैश्चपुत्र–शत (३.३)–च (अव्ययः)
संवृताःसंवृत (√सम्-वृ + क्त, १.३)
सुरान्सुर (२.३)
सहेन्द्रान्सह (अव्ययः)–इन्द्र (२.३)
ऋषिनागदानवान्ऋषि–नाग–दानव (२.३)
बबाधिरेबबाधिरे (√बाध् लिट् प्र.पु. बहु.)
तेतद् (१.३)
बलवीर्यदर्पिताःबल–वीर्य–दर्पित (√दर्पय् + क्त, १.३)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
स्तु ते राक्ष पुं वास्त्र यो
नि शा रैः पुत्र तैश्च संवृ ताः
सु रान्स हे न्द्रानृषि ना दा वा
न्ब बाधि रे ते वीर्यर्पि ताः