७.५०.११

अयोध्यायाः पती रामो दीर्घकालं भविष्यति ।
सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य चानुजाः ॥

पदच्छेदः

अयोध्यायाःअयोध्या (६.१)
पतीपति (१.१)
रामोराम (१.१)
दीर्घकालंदीर्घ–काल (२.१)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)
सुखिनश्चसुखिन् (१.३)–च (अव्ययः)
समृद्धाश्चसमृद्ध (√सम्-ऋध् + क्त, १.३)–च (अव्ययः)
भविष्यन्त्यस्यभविष्यन्ति (√भू लृट् प्र.पु. बहु.)–इदम् (६.१)
चानुजाः (अव्ययः)–अनुज (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यो ध्या याः ती रा मो
दीर्घ का लं विष्यति
सुखिश्च मृ द्धाश्च
वि ष्य न्त्यस्य चानु जाः