७.५०.१८

एवं गते न संतापं गन्तुमर्हसि राघव ।
सीतार्थे राघवार्थे वा दृढो भव नरोत्तम ॥

M N Dutt

Under these circumstances, O Laksmana, you should not grieve for Sītā or Rāma; in their interest do you become patient.

पदच्छेदः

एवंगतेएवम् (अव्ययः)–गत (√गम् + क्त, ७.१)
(अव्ययः)
संतापंसंताप (२.१)
गन्तुम्गन्तुम् (√गम् + तुमुन्)
अर्हसिअर्हसि (√अर्ह् लट् म.पु. )
राघवराघव (८.१)
सीतार्थेसीता–अर्थ (७.१)
राघवार्थेराघव–अर्थ (७.१)
वावा (अव्ययः)
दृढोदृढ (१.१)
भवभव (√भू लोट् म.पु. )
नरोत्तमनर–उत्तम (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वं ते सं ता पं
न्तुर्हसि रा
सी ता र्थे रा वा र्थे वा
दृ ढो रोत्त