७.५०.४

स दृष्ट्वा सूर्यसंकाशं ज्वलन्तमिव तेजसा ।
उपविष्टं वसिष्ठस्य सव्ये पार्श्वे महामुनिम् ।
तौ मुनी तापसश्रेष्ठौ विनीतस्त्वभ्यवादयत् ॥

M N Dutt

He saw the great ascetic Durbásā, burning like the sun in his effulgence, seated on the right hand side of Vasiștha. Thereupon he humbly saluted those two leading ascetics.

पदच्छेदः

तद् (१.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
सूर्यसंकाशंसूर्य–संकाश (२.१)
ज्वलन्तम्ज्वलत् (√ज्वल् + शतृ, २.१)
इवइव (अव्ययः)
तेजसातेजस् (३.१)
उपविष्टंउपविष्ट (√उप-विश् + क्त, २.१)
वसिष्ठस्यवसिष्ठ (६.१)
सव्येसव्य (७.१)
पार्श्वेपार्श्व (७.१)
महामुनिम्महत्–मुनि (२.१)
तौतद् (२.२)
मुनीमुनि (२.२)
तापसश्रेष्ठौतापस–श्रेष्ठ (२.२)
विनीतस्त्वभ्यवादयत्विनीत (√वि-नी + क्त, १.१)–तु (अव्ययः)–अभ्यवादयत् (√अभि-वादय् लङ् प्र.पु. एक.)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
दृ ष्ट्वा सूर्य सं का शंज्वन्तमि
ते सा वि ष्टं सि ष्ठस्य
व्ये पा र्श्वे हामु निम् तौमु नी ता
श्रे ष्ठौवि नी स्त्वभ्य वा यत्