७.५१.८

आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् ।
गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुभे ।
पुनरस्म्यागतो वीर पादमूलमुपासितुम् ॥

M N Dutt

O worshipful sir, having obeyed your behest's I have left the daughter of Janaka at the holy hermitage of Vālmiki near the banks of the Gangā. Having left that illustrious pure lady at the skirt of the hermitage. I have again come to serve your feet

पदच्छेदः

आर्यस्याज्ञांआर्य (६.१)–आज्ञा (२.१)
पुरस्कृत्यपुरस्कृत्य (√पुरस्-कृ + ल्यप्)
विसृज्यविसृज्य (√वि-सृज् + ल्यप्)
जनकात्मजाम्जनकात्मजा (२.१)
गङ्गातीरेगङ्गा–तीर (७.१)
यथोद्दिष्टेयथा (अव्ययः)–उद्दिष्ट (√उत्-दिश् + क्त, ७.१)
वाल्मीकेर्वाल्मीकि (६.१)
आश्रमेआश्रम (७.१)
शुभेशुभ (७.१)
पुनर्पुनर् (अव्ययः)
अस्म्यागतोअस्मि (√अस् लट् उ.पु. )–आगत (√आ-गम् + क्त, १.१)
वीरवीर (८.१)
पादमूलम्पाद–मूल (२.१)
उपासितुम्उपासितुम् (√उप-आस् + तुमुन्)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
र्य स्या ज्ञांपु स्कृत्यवि सृज्य
कात्म जाम् ङ्गा ती रे थो द्दि ष्टे
वा ल्मी के राश्र मेशु भेपु स्म्या
तो वी पा मूमु पासि तुम्