७.५२.१६

त्वया पुनर्ब्राह्मणगौरवादियं; कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् ।
कुरुष्व कर्ता ह्यसि नात्र संशयो; महाभयात्त्रातुमृषींस्त्वमर्हसि ॥

M N Dutt

But, without knowing the task, you have bound yourself by a promise for the glory of the Brahmanas. And you, without doubt, will succeed in effecting the work; and it behove you to deliver the sages from a mighty fright.

पदच्छेदः

त्वयात्वद् (३.१)
पुनर्पुनर् (अव्ययः)
ब्राह्मणगौरवाद्ब्राह्मण–गौरव (५.१)
इयंइदम् (१.१)
कृत्वाकृत्वा (√कृ + क्त्वा)
प्रतिज्ञाप्रतिज्ञा (१.१)
ह्यनवेक्ष्यहि (अव्ययः)–अनवेक्ष्य (अव्ययः)
कारणम्कारण (२.१)
कुरुष्वकुरुष्व (√कृ लोट् म.पु. )
कर्ताकर्तृ (१.१)
ह्यसिहि (अव्ययः)–असि (√अस् लट् म.पु. )
नात्र (अव्ययः)–अत्र (अव्ययः)
संशयोसंशय (१.१)
महाभयात्महत्–भय (५.१)
त्रातुम्त्रातुम् (√त्रा + तुमुन्)
ऋषींस्त्वम्ऋषि (२.३)–त्वद् (१.१)
अर्हसिअर्हसि (√अर्ह् लट् म.पु. )

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
त्व यापु र्ब्राह्म गौ वादि यं
कृ ताप्र ति ज्ञाह्य वेक्ष्य का णम्
कु रुष्व र्ताह्यसि नात्र सं यो
हा या त्त्रातुमृ षींस्त्वर्हसि