७.५३.१

ब्रुवद्भिरेवमृषिभिः काकुत्स्थो वाक्यमब्रवीत् ।
किं कार्यं ब्रूत भवतां भयं नाशयितास्मि वः ॥

M N Dutt

When the sages had spoken thus, Käkutstha said: "O ascetics, tell me what is the work which I shall have to accomplish in your behalf. Your fear shall be removed."

पदच्छेदः

ब्रुवद्भिर्ब्रुवत् (√ब्रू + शतृ, ३.३)
एवम्एवम् (अव्ययः)
ऋषिभिःऋषि (३.३)
काकुत्स्थोकाकुत्स्थ (१.१)
वाक्यम्वाक्य (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
किं (१.१)
कार्यंकार्य (√कृ + कृत्, १.१)
ब्रूतब्रूत (√ब्रू लोट् म.पु. द्वि.)
भवतांभवत् (६.३)
भयंभय (२.१)
नाशयितास्मिनाशयितास्मि (√नाशय् लुट् उ.पु. )
वःत्वद् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ब्रुद्भि रेमृषि भिः
का कु त्स्थो वाक्यब्र वीत्
किं का र्यं ब्रू तां
यं नायि तास्मि वः