७.५३.११

भगवन्मम वंशस्य शूलमेतदनुत्तमम् ।
भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ॥

M N Dutt

O reverend one, may this excellent dart be the possession of my family O god, you are the lord of the immortals.

पदच्छेदः

भगवन्ममभगवन्त् (८.१)–मद् (६.१)
वंशस्यवंश (६.१)
शूलम्शूल (१.१)
एतद्एतद् (१.१)
अनुत्तमम्अनुत्तम (१.१)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
तुतु (अव्ययः)
सततंसततम् (अव्ययः)
देवदेव (८.१)
सुराणाम्सुर (६.३)
ईश्वरोईश्वर (१.१)
ह्यसिहि (अव्ययः)–असि (√अस् लट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्म वंस्य
शू मे नुत्त मम्
वेत्तु तं दे
सु रा णा मीश्व रोह्यसि