७.५३.१३

मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा ।
भवतः पुत्रमेकं तु शूलमेतद्गमिष्यति ॥

M N Dutt

But in order that your prayer may not go for nothing. I graciously say in your behalf that one of your sons shall sway this dart.

पदच्छेदः

मामा (अव्ययः)
भूत्भूत् (√भू प्र.पु. एक.)
तेत्वद् (६.१)
विफलाविफल (१.१)
वाणीवाणी (१.१)
मत्प्रासादकृतामद्–प्रासाद–कृत (√कृ + क्त, १.१)
शुभाशुभ (१.१)
भवतःभवत् (६.१)
पुत्रम्पुत्र (२.१)
एकंएक (२.१)
तुतु (अव्ययः)
शूलम्शूल (१.१)
एतद्एतद् (१.१)
गमिष्यतिगमिष्यति (√गम् लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा भू त्तेवि ला वा णी
त्प्र साकृ ताशु भा
तः पुत्र मे कंतु
शू मेद्ग मिष्यति