७.५३.१९

स विहाय इमं लोकं प्रविष्टो वरुणालयम् ।
शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ॥

M N Dutt

And forsaking this world, he entered the region of Varuņa; and making over the dart to Lavana, communicated to him all about the boon he had obtained.

पदच्छेदः

तद् (१.१)
विहायविहाय (√वि-हा + ल्यप्)
इमंइदम् (२.१)
लोकंलोक (२.१)
प्रविष्टोप्रविष्ट (√प्र-विश् + क्त, १.१)
वरुणालयम्वरुणालय (२.१)
शूलंशूल (२.१)
निवेश्यनिवेश्य (√नि-वेशय् + ल्यप्)
लवणेलवण (७.१)
वरंवर (२.१)
तस्मैतद् (४.१)
न्यवेदयत्न्यवेदयत् (√नि-वेदय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि हा मं लो कं
प्र वि ष्टोरु णा यम्
शू लंनि वेश्य णे
रं स्मैन्य वे यत्