७.५३.५

स मधुर्वीर्यसंपन्नो धर्मे च सुसमाहितः ।
बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ॥

M N Dutt

And by way of honouring him, Rudra conferred a wonderful boon upon Madhu endowed with prowess and ever intent on religion.

पदच्छेदः

तद् (१.१)
मधुर्मधु (१.१)
वीर्यसम्पन्नोवीर्य–सम्पन्न (√सम्-पद् + क्त, १.१)
धर्मेधर्म (७.१)
(अव्ययः)
सुसमाहितःसु (अव्ययः)–समाहित (१.१)
बहुमानाच्चबहु–मान (५.१)–च (अव्ययः)
रुद्रेणरुद्र (३.१)
दत्तस्तस्याद्भुतोदत्त (√दा + क्त, १.१)–तद् (६.१)–अद्भुत (१.१)
वरःवर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

धु र्वीर्य सं न्नो
र्मेसु माहि तः
हु मा नाच्च रु द्रे
त्त स्त स्याद्भु तो रः