७.५३.८

यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर ।
तावच्छूलं तवेदं स्यादन्यथा नाशमाप्नुयात् ॥

M N Dutt

So long as you, O mighty Asura, do not assail celestials and Vipras, so long shall this be your, otherwise it shall come to naught.

पदच्छेदः

यावत्यावत् (अव्ययः)
सुरैश्चसुर (३.३)–च (अव्ययः)
विप्रैश्चविप्र (३.३)–च (अव्ययः)
(अव्ययः)
विरुध्येर्विरुध्येः (√वि-रुध् विधिलिङ् म.पु. )
महासुरमहत्–असुर (८.१)
तावच्छूलंतावत् (अव्ययः)–शूल (१.१)
तवेदंत्वद् (६.१)–इदम् (१.१)
स्याद्स्यात् (√अस् विधिलिङ् प्र.पु. एक.)
अन्यथाअन्यथा (अव्ययः)
नाशम्नाश (२.१)
आप्नुयात्आप्नुयात् (√आप् विधिलिङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यात्सु रैश्च वि प्रैश्च
वि रु ध्येर्म हासु
ता च्छू लं वे दं स्या
न्य था ना माप्नु यात्