७.५३.९

यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः ।
तं शूलं भस्मसात्कृत्वा पुनरेष्यति ते करम् ॥

M N Dutt

Reducing to cinders the person that shall rashly enter upon conflict with you, this dart shall return to your hand.

पदच्छेदः

यश्चयद् (१.१)–च (अव्ययः)
त्वाम्त्वद् (२.१)
अभियुञ्जीतअभियुञ्जीत (√अभि-युज् विधिलिङ् प्र.पु. एक.)
युद्धाययुद्ध (४.१)
विगतज्वरःविगत (√वि-गम् + क्त)–ज्वर (१.१)
तंतद् (२.१)
शूलंशूल (२.१)
भस्मसात्भस्मसात् (अव्ययः)
कृत्वाकृत्वा (√कृ + क्त्वा)
पुनर्पुनर् (अव्ययः)
एष्यतिएष्यति (√इ लृट् प्र.पु. एक.)
तेत्वद् (६.१)
करम्कर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्च त्वाभि यु ञ्जी
यु द्धाविज्व रः
तं शू लंस्म सा त्कृ त्वा
पु रेष्यति ते रम्