७.५५.१५

तत्संनिक्षिप्य भवने पूज्यमानं पुनः पुनः ।
दिशः सर्वाः समालोक्य प्राप्नोत्याहारमात्मनः ॥

पदच्छेदः

तत्तद् (२.१)
संनिक्षिप्यसंनिक्षिप्य (√संनि-क्षिप् + ल्यप्)
भवनेभवन (७.१)
पूज्यमानंपूज्यमान (√पूजय् + शानच्, २.१)
पुनःपुनर् (अव्ययः)
पुनःपुनर् (अव्ययः)
दिशःदिश् (२.३)
सर्वाःसर्व (२.३)
समालोक्यसमालोक्य (√समा-लोकय् + ल्यप्)
प्राप्नोत्याहारम्प्राप्नोति (√प्र-आप् लट् प्र.पु. एक.)–आहार (२.१)
आत्मनःआत्मन् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्सं नि क्षिप्य ने
पूज्य मा नंपु नःपु नः
दि शः र्वाः मा लोक्य
प्रा प्नो त्या हा मात्म नः