७.५५.१४

यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना ।
दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् ॥

पदच्छेदः

यच्चयद् (१.१)–च (अव्ययः)
तस्यतद् (६.१)
महच्छूलंमहत् (१.१)–शूल (१.१)
त्र्यम्बकेणत्र्यम्बक (३.१)
महात्मनामहात्मन् (३.१)
दत्तंदत्त (√दा + क्त, १.१)
शत्रुविनाशायशत्रु–विनाश (४.१)
मधोर्मधु (६.१)
आयुधम्आयुध (१.१)
उत्तमम्उत्तम (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्चस्य च्छू लं
त्र्यम्ब के हात्म ना
त्तंत्रुवि ना शा
धो रायु मुत्त मम्