७.५६.७

अतो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् ।
एक एव धनुष्पानिस्तद्गच्छ त्वं मधोर्वनम् ॥

पदच्छेदः

अतोअतस् (अव्ययः)
हृष्टजनाकीर्णांहृष्ट (√हृष् + क्त)–जन–आकीर्ण (√आ-कृ + क्त, २.१)
प्रस्थाप्यप्रस्थाप्य (√प्र-स्थापय् + ल्यप्)
महतींमहत् (२.१)
चमूम्चमू (२.१)
एकएक (१.१)
एवएव (अव्ययः)
धनुष्पाणिस्तद्धनुष्पाणि (१.१)–तद् (२.१)
गच्छगच्छ (√गम् लोट् म.पु. )
त्वंत्वद् (१.१)
मधोर्मधु (६.१)
वनम्वन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो हृष्ट ना की र्णां
प्र स्थाप्य तीं मूम्
नु ष्पानि
स्त द्ग च्छ त्वं धोर्व नम्