७.५७.१३

स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् ।
क्रोधेन महताविष्टो जघानैकं महेषुणा ॥

M N Dutt

King Saudāsa saw those two Rākşasas and found the forest divested of all creatures. And enraged in consequence thereof he slew one of them.

पदच्छेदः

तद् (१.१)
तुतु (अव्ययः)
तौतद् (२.२)
राक्षसौराक्षस (२.२)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
निर्मृगंनिर्मृग (२.१)
(अव्ययः)
वनंवन (२.१)
कृतम्कृत (√कृ + क्त, २.१)
क्रोधेनक्रोध (३.१)
महताविष्टोमहत् (३.१)–आविष्ट (√आ-विश् + क्त, १.१)
जघानैकंजघान (√हन् लिट् प्र.पु. एक.)–एक (२.१)
महेषुणामहत्–इषु (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तु तौ राक्ष सौ दृ ष्ट्वा
निर्मृ गं नंकृ तम्
क्रो धे ता वि ष्टो
घा नै कं हेषु णा