७.५७.१४

विनिपात्य तमेकं तु सौदासः पुरुषर्षभः ।
विज्वरो विगतामर्षो हतं रक्षोऽभ्यवैक्षत ॥

पदच्छेदः

विनिपात्यविनिपात्य (√विनि-पातय् + ल्यप्)
तम्तद् (२.१)
एकंएक (२.१)
तुतु (अव्ययः)
सौदासःसौदास (१.१)
पुरुषर्षभःपुरुष–ऋषभ (१.१)
विज्वरोविज्वर (१.१)
विगतामर्षोविगत (√वि-गम् + क्त)–अमर्ष (१.१)
हतंहत (√हन् + क्त, २.१)
रक्षोरक्षस् (२.१)
ऽभ्यवैक्षतअभ्यवैक्षत (√अभ्यव-ईक्ष् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

विनि पात्य मे कंतु
सौ दा सःपुरुर्ष भः
विज्व रोवि ता र्षो
तं क्षोऽभ्य वैक्ष