७.५७.१५

निरीक्षमाणं तं दृष्ट्वा सहायस्तस्य रक्षसः ।
संतापमकरोद्घोरं सौदासं चेदमब्रवीत् ॥

पदच्छेदः

निरीक्षमाणंनिरीक्षमाण (√निः-ईक्ष् + शानच्, २.१)
तंतद् (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
सहायस्तस्यसहाय (१.१)–तद् (६.१)
रक्षसःरक्षस् (६.१)
संतापम्संताप (२.१)
अकरोद्अकरोत् (√कृ लङ् प्र.पु. एक.)
घोरंघोर (२.१)
सौदासंसौदास (२.१)
चेदम् (अव्ययः)–इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नि रीक्ष मा णं तं दृ ष्ट्वा
हा स्तस्यक्ष सः
सं ता रो द्घो रं
सौ दा सं चेब्र वीत्