७.५७.१६

यस्मादनपराद्धं त्वं सहायं मम जघ्निवान् ।
तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ॥

पदच्छेदः

यस्माद्यस्मात् (अव्ययः)
अनपराद्धंअनपराद्ध (२.१)
त्वंत्वद् (१.१)
सहायंसहाय (२.१)
मममद् (६.१)
जघ्निवान्जघ्निवस् (√हन् + क्वसु, १.१)
तस्मात्तस्मात् (अव्ययः)
तवापित्वद् (६.१)–अपि (अव्ययः)
पापिष्ठपापिष्ठ (८.१)
प्रदास्यामिप्रदास्यामि (√प्र-दा लृट् उ.पु. )
प्रतिक्रियाम्प्रतिक्रिया (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मा रा द्धं त्वं
हा यंघ्नि वान्
स्मात्त वापि पा पिष्ठ
प्र दा स्या मिप्र तिक्रि याम्