७.५७.३

सोऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् ।
कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ॥

M N Dutt

And having bowed to that high-souled Muni Vālmīki, he with folded palms, said thus.

पदच्छेदः

सोतद् (१.१)
ऽभिवाद्यअभिवाद्य (√अभि-वादय् + ल्यप्)
महात्मानंमहात्मन् (२.१)
वाल्मीकिंवाल्मीकि (२.१)
मुनिसत्तमम्मुनि–सत्तम (२.१)
कृताञ्जलिर्कृताञ्जलि (१.१)
अथोअथो (अव्ययः)
भूत्वाभूत्वा (√भू + क्त्वा)
वाक्यम्वाक्य (२.१)
एतद्एतद् (२.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सोऽभि वाद्य हा त्मा नं
वा ल्मी किंमुनित्त मम्
कृ ताञ्जलि थो भू त्वा
वाक्य मेदु वा