७.५७.३०

तच्छ्रुता पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् ।
पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् ॥

पदच्छेदः

तच्छ्रुत्वातद् (२.१)–श्रुत्वा (√श्रु + क्त्वा)
पार्थिवेन्द्रस्यपार्थिव–इन्द्र (६.१)
रक्षसारक्षस् (३.१)
विकृतंविकृत (√वि-कृ + क्त, २.१)
(अव्ययः)
तत्तद् (२.१)
पुनःपुनर् (अव्ययः)
प्रोवाचप्रोवाच (√प्र-वच् लिट् प्र.पु. एक.)
राजानंराजन् (२.१)
वसिष्ठःवसिष्ठ (१.१)
पुरुषर्षभम्पुरुष–ऋषभ (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्छ्रु ता पार्थि वे न्द्रस्य
क्ष साविकृ तं तत्
पु नः प्रो वा रा जा नं
सि ष्ठःपुरुर्ष भम्