७.५७.३१

मया रोषपरीतेन यदिदं व्याहृतं वचः ।
नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् ॥

पदच्छेदः

मयामद् (३.१)
रोषपरीतेनरोष–परीत (√परि-इ + क्त, ३.१)
यद्यद् (१.१)
इदंइदम् (१.१)
व्याहृतंव्याहृत (√व्या-हृ + क्त, १.१)
वचःवचस् (१.१)
नैतच्छक्यं (अव्ययः)–एतद् (१.१)–शक्य (१.१)
वृथावृथा (अव्ययः)
कर्तुंकर्तुम् (√कृ + तुमुन्)
प्रदास्यामिप्रदास्यामि (√प्र-दा लृट् उ.पु. )
(अव्ययः)
तेत्वद् (४.१)
वरम्वर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

या रो री ते
दि दं व्याहृ तं चः
नै च्छ क्यंवृ था र्तुं
प्र दा स्यामि ते रम्