७.५७.३२

कालो द्वादश वर्षाणि शापस्यास्य भविष्यति ।
मत्प्रसादाच्च राजेन्द्र अतीतं न स्मरिष्यसि ॥

पदच्छेदः

कालोकाल (१.१)
द्वादशद्वादशन् (१.१)
वर्षाणिवर्ष (१.३)
शापस्यास्यशाप (६.१)–इदम् (६.१)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)
मत्प्रसादाच्चमद्–प्रसाद (५.१)–च (अव्ययः)
राजेन्द्रराजन्–इन्द्र (८.१)
अतीतंअतीत (√अति-इ + क्त, २.१)
(अव्ययः)
स्मरिष्यसिस्मरिष्यसि (√स्मृ लृट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

का लो द्वा र्षाणि
शा स्यास्य विष्यति
त्प्र सा दाच्च रा जेन्द्र
ती तंस्म रिष्यसि