७.५७.५

शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुंगवः ।
प्रत्युवाच महात्मानं स्वागतं ते महायशः ॥

M N Dutt

Hearing the words of the high-souled Śatrughna, Vālmīki, the foremost of ascetics, replied saying: “O you of great renown, do you wait here without any hesitation. O gentle one, this hermitage belongs to the descendants of the Raghu face. Do you fearlessly take your seat and water to wash your feet.”

पदच्छेदः

शत्रुघ्नस्यशत्रुघ्न (६.१)
वचःवचस् (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
प्रहस्यप्रहस्य (√प्र-हस् + ल्यप्)
मुनिपुंगवःमुनि–पुंगव (१.१)
प्रत्युवाचप्रत्युवाच (√प्रति-वच् लिट् प्र.पु. एक.)
महात्मानंमहात्मन् (२.१)
स्वागतंस्वागत (१.१)
तेत्वद् (४.१)
महायशःमहत्–यशस् (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्रु घ्नस्य चः श्रु त्वा
प्रस्यमुनि पुं वः
प्रत्यु वा हा त्मा नं
स्वा तं ते हा शः