७.५८.२

ततोऽर्धरात्रसमये बालका मुनिदारकाः ।
वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम् ।
तस्य रक्षां महातेजः कुरु भूतविनाशिनीम् ॥

M N Dutt

In the midnight the Muni boys came to Vālmīki and communicated to him this auspicious intelligence, saying. “O illustrious Sir, the beloved spouse of Rāma has given birth to two sons; do you so protect them that evil spirits not injure them."

पदच्छेदः

ततोततस् (अव्ययः)
ऽर्धरात्रसमयेअर्धरात्र–समय (७.१)
बालकाबालक (१.३)
मुनिदारकाःमुनि–दारक (१.३)
वाल्मीकेःवाल्मीकि (६.१)
प्रियम्प्रिय (२.१)
आचख्युःआचख्युः (√आ-ख्या लिट् प्र.पु. बहु.)
सीतायाःसीता (६.१)
प्रसवंप्रसव (२.१)
शुभम्शुभ (२.१)
तस्यतद् (६.१)
रक्षांरक्षा (२.१)
महातेजःमहत्–तेजस् (८.१)
कुरुकुरु (√कृ लोट् म.पु. )
भूतविनाशिनीम्भूत–विनाशिन् (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
तोऽर्ध रात्र ये बा कामु
नि दा काः वा ल्मी केःप्रि मा ख्युः
सी ता याःप्र वंशु भम्स्य क्षां
हा ते जःकुरु भूवि नाशि नीम्